अक्लान्तद्युतिभिर्वसन्तकुसुमैरुत्तंसयन् कुन्तलान्
अन्तः खेलति खञ्जरीटनयने कुञ्जेषु कञ्जेक्षणः।
अस्मन्मन्दिरकर्मतस्तव करौ नाद्यापि विश्राम्यतः
किं ब्रूमो रसिकाग्रणीरसि घटी नेयं विलम्बक्षमा॥
The lotus-eyed one (Krishna) plays in the groves... Your hands haven't yet rested from our household work. What can we say? You are a true connoisseur...