आक्षिप्ता चामरश्रीः प्रसभमपहृतः पौण्डरीको विलासः
प्रच्छन्नो वीरकम्बुः समजनि विहितः कण्ठभाराय हारः।
लुप्तो हासप्रकाशः कमपि परिभवं प्रापितः पुष्पराशिश्
चन्द्राभैर्यद्यशोभिः प्रतिधरणिभुजां निह्नुता किं च कीर्तिः॥
The symbols of royal glory are plundered, honor lost, smiles hidden, ornaments turned burdens—kings brought to shame.